________________
प्रथमः प्रकाशः।
स एवायं कृतच्छद्मा पापः पापीयसामहो। इत्यतयंत लोकेन स महात्मा दिवानिशम् ॥ ३४ ॥ गोभ्रूणहिजघात्येष इति लोकेन जल्पता। विशन् गृहेषु भिक्षाथें खेव लोष्टैरकुट्यत ॥ ३५ ॥ स्मार्यमाण: स तत्यापं प्रतिवासरमप्यसौ । शान्तस्त्रान्तो न भुङक्त स्म किंवा सत्त्वस्य दुष्करम् ॥ २६ ॥ क्कचित्रातः क्वचिम्मध्यं दिने सायमपि क्वचित् । स्मार्यमाणः स तत्यापं कुत्राप्यङ्गि न भुक्तवान् ॥ ३७ ॥ लोष्टुभिर्यष्टिभिः पांशवष्टिभिर्मुष्टिभिर्जनाः । यज्जनुः सोऽधिसेहे तत्सम्यक् चैवमभावयत् ॥ ३८ ॥ पात्मन् यादृक्तृतं कम्म तादृशं फलमाप्नुहि । यादृक्षमुप्यते बीजं फलं तादृक्षमाप्यते ॥ ३८ ॥ यदमी निरनुक्रोशमाक्रोशान्मयि तन्वते । प्रयत्नेनैव सिद्धा तन्ममेयं कम्मनिर्जरा ॥ ४० ॥ . मय्याक्रोशाः प्रमोदाय यथैषां मे सथैव हि। यत्प्रीत्या सहमानस्य कम्मक्षयविधायिनः ॥ ४१ ॥ यन्मां भर्खयतामेषां सुखमुत्पद्यतेऽद्य तत् । उत्पद्यतां भवे हन्त दुर्लभः सुखसङ्गमः ॥ ४२ ॥ अमी मदीयं दुष्कर्म ग्रन्थिं परुषभाषितैः । क्षारैरिव चिकित्सन्तो नितान्तं सुझदो मम ॥ ४३ ॥ कुर्वन्तु ताडनं हन्त ममैते यदिदं किल । स्वर्णस्येवाग्निसन्तापो मलिनत्वमपोहति ॥ ४४ ॥