SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ । योगशास्त्रे - कर्षन् दुर्गतिगुप्तमी खं प्रक्षिपति तत्र यः । कथं कुप्याम्यहं तस्मै प्रहारानपि कुर्वते ॥ ४५ ॥ मत्यापानि व्यपोहन्ति निजपुण्यव्ययेन ये । कथङ्कारमिवैतेभ्यो ऽपरः परमबान्धवः ॥ ४६ ॥ वधबन्धादि हर्षाय यन्मे संसारमोचनम् । तदेवानन्तसंसारहेतुरेषां दुनोति माम् ॥ ४७॥ केचित्परेषां तोषाय त्यजन्त्यर्थान्वपूंथपि । एषां प्रौतिदमाकोशहननादि कियन् मम ॥ ४८ ॥ तर्जितोऽहं हतो नाऽस्मि हतो वा नास्मि मारितः । मारितो वा न मे धर्मोऽपहृतो बान्धवैरिव ॥ ४८ ॥ आक्रोशवागधिक्षेपो बन्धनं हननं मृतिः । सह्यं श्रेयोऽर्थिना सर्व श्रेयो हि बहुविघ्नकम् ॥ ५० ॥ एवं भावयता तेन गर्हता स्खं च दुष्कृतम् । निर्दग्धः सर्वतः कम्मराशि: कक्ष इवाग्निना ॥ ५१ ॥ अम्बानं केवलज्ञानमथ लेभे 'सुदुर्लभम् । अयोगिकेवलिगुणस्थानस्थो मोक्षमाप च ॥ ५२ ॥ योगप्रभावेन दृढप्रहारी यथैष मुक्वा नरकातिथित्वम् ।। पदं प्रपेदे परमं तथान्योऽप्यसंशयान: प्रयतेत योगे ॥ ५३ ॥ १२ ॥ . (१) ख च स दुर्लभम् । .
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy