________________
प्रथमः प्रकाशः।
पुनरुदाहरणान्तरेण योगश्रद्धामेव वईयति । तत्कालकृतदुष्कर्मकर्मठस्य दुरात्मनः ।
गोप्ने चिलातीपुत्रस्य योगाय स्पृहयेन्न कः ॥१३॥ तत्कालं तत्क्षणं कृतं यदुष्कम्म स्त्रीवधलक्षणं तेन कम्मंठः कम्भशूरस्तस्य दुरात्मन इति पापकरणकालापेक्षं चिलातीपुत्राभिधानस्य गोप्ने दुर्गतिपातरक्षकाय योगाय को न स्मृहयेत् सर्व एव स्मृहयेदित्यर्थः ।
तथाहि
क्षितिप्रतिष्ठे नगरे यज्ञदेवोऽभवद्दिजः । . निमिन्द पण्डितम्मन्यः स सदा जिनशासनम् ॥ १ ॥ असहिष्णुश्च तां निन्दां जिगीषुः कोऽपि चेल्लकः । गुरुणा वार्यमाणोऽपि तं वादार्थमवीवदत् ॥ २ ॥ इशी च प्रतिज्ञाभूदादाधिष्ठितयोस्तयोः । येन यो जेष्थते तस्य शिष्यत्वं स करिष्यति ॥ ३ ॥ प्रानौतो निग्रहस्थानं बुद्धिकौशलशालिना। विवदन्वादिना तेन यजदेवः पराजितः ॥ ४ ॥ चेल्लको जितकाशी तु यज्ञदेवदिजन्मना। तदा पूर्वप्रतिज्ञातां परिव्रज्यामजिग्रहत् ॥ ५ ॥ ततः शासनदेव्यैवं यज्ञदेवो व्यबोध्यत । चारित्रं प्रतिपत्रोऽसि ज्ञानश्रद्धानवान्भव ॥ ६ ॥