________________
योगशास्त्र
व्रतं ततः प्रभृत्येष यथावत्पालयबपि । निनिन्द वस्त्राङ्गमलं प्राक्संस्कारो हि दुस्त्यजः ॥ ७ ॥ अशाम्यन् जातयोऽप्यस्य संसर्गेण महात्मन: । प्रावृषेण्यानसम्पर्केणाहिमांशोरिवांशवः ॥ ८ ॥ अस्य पाणिग्रहीती तु नितान्तमनुरागिणी । उज्झाञ्चकार नो रागं नौलौरतोव शाटिका ॥ ६ ॥ वश्यो मेऽस्त्विति सा तस्मै पारणे कामणं ददौ । सत्यं रक्ता विरक्ताच मारयन्त्येव योषितः ॥ १० ॥ क्षीयमाण:कृष्णपक्षणव काम्मणकम्मणा । स मुनीन्दर्ययौ स्वर्ग मण्डलं तरणरिव ॥ ११ ॥ तस्यावसानात् सञ्जातनिर्वेदा सापि गहिनी। प्रव्रज्यामग्रहोदेकं मानुष्थकतरोः फलम् ॥ १२ ॥ अनालोचैव सा पापं पतिव्यसनसम्भवम् । कालं कृत्वा दिवं प्राप दुष्यापं तपसा हि किम् ॥ १३ ॥ यजदेवस्य जीवोऽथ च्युत्वा राजगृहे पुरे । धनसार्थपतेश्चेव्याशिलात्यास्तनयोऽभवत् ॥ १४ ॥ चिलात्याः पुत्र इत्येष चिलातीपुत्रसंज्ञया । आहूयते स्म लोकेन नाम नान्यत्प्रकल्पितम् ॥ १५ ॥ यज्ञदेवप्रियाजीवश्चात्वाऽनुसुतपञ्चकम् । भद्राया धनभार्यायाः सुसुमेति सुताऽभवत् ॥ १६ ॥ धनो नियोजयामास चिलातीतनयं च तम् । सुसुमायाः स्वदुहितुः बालग्राहककम्मणि ॥ १७ ॥