SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशः। लोकेष्वागांसि चक्रऽसौ श्रेष्ठाभैषीच राजतः । खामी भृत्यापराधेन यतः स्याद्दण्डभाजनम् ॥ १८ ॥ मन्त्रवित्तं धनश्रेष्ठी सदोपद्रवकारिणम् । राहानिर्वासयामास दासेरं दन्दशूकवत् ॥ १८ ॥ सोऽथ सिंहगुहां चौरपल्ली वल्लीं महागसाम् । ययौ प्रियागाः प्रोतिर्हि तुलव्यसनशीलयोः ॥ २० ॥ स नृशंसो नृशंसेन दस्युहन्देन सङ्गतः । वायुनेवाग्निरभवहारुणोऽप्यतिदारुणः ॥ २१ ॥ तत: सिंहगुहाधीशे चौरसेनापतौ मृते । चौरसेनापतिः सोऽभूत्तदर्थमिव निर्मितः ॥ २२ ॥ यौवनं सुसमाप्याप्ता रूपादिगुणशालिनी । कलाकलापपूर्णाभूत् खेचरीव महीचरी ॥ २३ ॥ चैलातेयोऽन्यदोचे स्वानस्ति राजगृहे पुरे । श्रेष्ठी धनो ऽनन्तधनो दुहिता चास्य सुसुमा ॥ २४ ॥ तस्करास्तत्र गच्छामो धनं वः सुसुमा तु मे। इति व्यवस्थामास्थाय सोऽगाइनग्रहं निशि ॥ २५ ॥ प्रयोज्य स्थापनों विद्या कीर्तयित्वा स्वमागतम् । स धनं ग्राहयामास सुसुमां स्वयमग्रहीत् ॥ २६ ॥ सुप्ताशेषपरीवारः सूनुभिः पञ्चभिः समम् । अपमृत्य धनस्तस्थौ नयो नयवतां ह्यसौ ॥ २० ॥ जीवग्राहं ग्रहीत्वा च हृदयेन स सुसुमाम् । चैलातेयः पलायिष्ट सलोपत्रेदस्युभिः सह ॥ २८ ॥
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy