________________
१०२
योगशास्त्र
पाहूयारक्षपुरुषान् धनश्रेष्ठीत्यभाषत । चौरापहतवित्तं च प्रत्यानयत सुसुमाम् ॥ २८ ॥ ततो धनः सहारक्षः पुत्त्रैश्चायुधपाणिभिः । पुरोगखमन:स्पईयेव त्वरितमन्वगात् ॥ ३० ॥ जलं स्थलं लता वृक्षानन्यदप्यखिलं पथि । पोतोन्मत्तो हैममिव सोऽपश्यत्सुसुमामयम् ॥ ३१ ॥ इत: पौतमितो भुक्तमित: स्थितमिती गतम् । एवं वदद्भिः पदिकैः स दस्यूनिकषा ययौ ॥ ३२ ॥ हत हर्तति टलीत ग्टह्रौतेति च भाषिणः । . मलिम्बुचानाममिलबारक्षपुरुषास्ततः ॥ ३३ ॥ दिशो दिशि प्रणशस्ते वित्तं त्यक्त्वान्यतस्कराः ।। सुसुमां स तु नामुञ्चच्चौरी व्याघ्री मृगौमिव ॥ ३४ ॥ आरक्षपुरुषास्ते तु तद्वित्तं प्राप्य पुष्कलम् । व्यावर्त्तन्त कतार्थो हि सर्वः स्यादन्यथामतिः ॥ ३५ ॥ उद्दहन् सुसमामसे लतामिव मतङ्गजः । प्रविवेश महारण्यं चिलातीतनयस्ततः ॥ ३६ ॥ सूनुभिः पञ्चभिः पञ्चाननैरिव धनोऽन्वगात् । कष्टुं पुत्रौं मुखाहस्योराहोरिन्दुकलामिव ॥ ३७ ॥ धने ससविधीभूते माभवत्वस्य सा मम । सुसुमेति धिया तस्याः शिरःकमलमच्छिनत् ॥ ३८ ॥
(१) ख ग वः।
.