________________
प्रथमः प्रकाशः। प्राकष्टकरवालोऽसौ हस्तविन्यस्तमस्तकः ।। तदा यमपुरीद्दारक्षेत्रपाल इवाबभौ ॥ ३८ ॥.. .. सुसुमायाः कबन्धस्यान्तिके स्थित्वा रुदन् धनः । वारीव बाष्पपूरण नयनाञ्जलिभिर्ददौ ॥ ४० ॥ तस्याः कबन्धमुसज्य व्यावृत्तः ससुतो धनः । शल्यित: शोकशल्येन महाटव्यामथापतत् ॥ ४१ ॥ ललाटन्तपतपनतेजस्तापभयादिव। विष्वक् सङ्खचितच्छायो मध्याह्नश्च ततोऽभवत् ॥ ४२ ॥ शोकमक्षुधावणामध्याह्नातपवह्निभिः । धन: सुताच पञ्चाग्निसाधका इव तेपिरे ॥ ४३ ॥ न जलं न फलं नान्यद्ददृशुर्जीवनौषधम् । मृत्यवे प्रत्युतापश्यंस्ते 'हिंस्रखापदान् पथि ॥ ४४ ॥ प्रात्मनस्तनयानां च तां पश्यन्विषमां दशाम् । धनश्रेष्ठी पथ्यतुच्छे गच्छब्रेवमचिन्तयत् ॥ ४५ ॥ मम सर्वस्वनाशोऽभूत्पूत्री प्राणप्रिया मृता। मृत्युकोटिं वयं प्राप्ता धिगहो दैवजृम्भितम् ॥ ४६ ॥ न यत्पुरुषकारेण साध्यं धीसम्पदा न च । तदेकं दैवमेवेह बलिभ्यो बलवत्तरम् ॥ ४७॥ प्रसाद्यते न दानेन विनयेन न ग्राह्यते । सेवया वयते नैव केयं दुःसाध्यता विधेः ॥ ४८ ॥
(१) च म हिंसश्वापदान्यपि ।