________________
योगशास्त्रे विबुधैर्बोध्यते नैव बलवद्भिर्न रुध्यते । न साध्यते तपस्य द्भिः प्रतिमल्लोऽस्तु को विधः ॥ ४ ॥ अहो देवं मित्रमिव कदाचिदनुकम्पते । कदाचित्परिपन्थीव निःशझं प्रणिहन्ति च ॥ ५० ॥ विधिः पितेव सर्वत्र कदाचित्परिरक्षति । कदाचित्पीडयत्येव दायाद इव 'दुर्दमः ॥ ५१ ॥ विधिनयति मार्गेणामार्गस्थमपि कर्हिचित् । कदाचिन्मार्गगमपि विमार्गेण प्रवर्तयेत् ॥ ५२ ॥ पानयेदपि दूरस्थं करस्थमपि नाशयेत् । मायेन्द्रजालतुल्यस्य विचित्रा गतयो विधः ॥ ५३ ॥ अनुकूले विधौ पुंसां विषमप्यमृतायते । विपरीते पुनस्तत्रामृतमेव विषायते ॥ ५४ ॥ स एवं चिन्तयन्नेव प्राप राजहं पुरम् । सशोकः सुसुमापुत्त्रया विदधे चौद्धदेहिकम् ॥ ५५ ॥ वैराग्याइतमादाय श्रीवीरस्वामिनोऽन्तिक । दुस्तपं स तपस्तेपे पूर्णायुश्च दिवं ययौ ॥ ५६ ॥ चैलातेयोऽप्यनुरागात्मसुमाया मुहुर्मुहुः । मुखं पश्यत्रविज्ञातमो याम्यां दिशं ययौ ॥ ५७ ॥ सर्वसन्तापहरणं छायावृक्षमिवाध्वनि । साधुमेकं ददर्शासौ कायोत्सर्गजुषं पुरः ॥ ५८ ॥
.
(१) ख च दुर्मदः ।
... .