________________
प्रथमः प्रकाशः।
१०५
स खेन कर्मणा तेन किञ्चिदुहिग्नमानसः ।। तमुवाच समाख्याहि धर्म संक्षेपतो मम ॥ ५८ ॥ अन्यथा कदलीलावं लविष्यामि शिरस्तव । अनेनैव कृपाणेन सुसुमाया इव क्षणात् ॥ ६ ॥ स ज्ञानामुनिरज्ञासीहोधिबीजमिहाहितम् । अवश्यं यास्यति स्फातिं पल्वले शालिबीजवत् ॥ ६१ ॥ कार्यः सम्यगुपशमो विवेकः संवरोऽपि च । इत्युक्त्वा चारणमुनिः स पक्षीव खमुद्ययौ ॥ ६२ ॥ पदानि मन्ववत्तानि परावर्त्तयतस्ततः । जज्ञे चिलातीपुत्रस्य तदर्थोल्लेख ईदृशः ॥ ६३ ॥ क्रोधादीनां कषायाणां कुर्यादुपशमं सुधीः । हहा तैरहमाक्रान्तश्चन्दन: पत्रगैरिव ॥ ६४ ॥ चिकित्साम्यद्य तदिमान्महारोगानिवात्मनः । क्षमामृदुत्वऋजुतासन्तोषपरमौषधैः ॥ ६५ ॥ धनधान्यहिरण्यादिसर्वस्वत्यागलक्षणम् । विवेकमेकं कुर्वीत बीजं ज्ञानमहातरोः ॥ ६६ ॥ तदिदं सुसुमाशीष कपाणं च करस्थितम् । सर्वस्वभूतं मुञ्चामि केतनं पापसम्पदः ॥ ६ ॥ संवरचाक्षमनसां विषयेभ्यो निवर्तनम् । स मया प्रतिपन्नोऽद्य संयमश्रीशिरोमणिः ॥ ६८ ॥ पदार्थं भावयब्रेवं संरुद्धसकलेन्द्रियः । समाधिमधिगम्याभून्मनोमात्रैकचेतनः ॥ ६८ ॥
१४