________________
प्रथमः प्रकाशः।
यदाह
'सव्वो न हिंसियब्बो जह महिपालो तहा उदयपालो।
न य अभयदाणवइणा जणोवमाणेण होयब्वं ॥ १ ॥ तथापि लोकप्रसिद्धानुरोधेन ब्रह्मेत्याद्युक्तम् । ये हि लौकिकाः सर्वस्या हिंसायाः पापफलं न मन्यन्ते । तेऽपि ब्रह्मादिघातकस्य महापापीयसस्तां मन्यन्त एवेति । नरकातिर्दृढप्रहारिप्रभृतेर्योगो हस्तावलम्बनम् । तेनैव भवेन मोक्षगमनात् । प्रभृतिग्रहणादन्येऽपि पापकारिणो विदितजिनवचनास्तत एव प्राप्तयोगसम्पदो नरकप्राप्तियोग्यानि कर्माणि निर्मूल्य परमसम्पदमासादितवन्तो द्रष्टव्याः ।
यदाह
कूरावि सहावेणं विसयविसवसाणुगावि होऊणं । भावियजिणवयणमणा तेलु कसुहावहा होति ॥ १ ॥ इति । तथाहि
कस्मिंश्चिनगरे कशिदासीद्विजातिरुद्भटः । प्रजासु कर्तुमन्यायान् प्रावर्तत स पापधौः ॥ १ ॥
(१) सर्वो न हिंसितव्यो यथा महिपालस्तथा उदयपालः ।
न च अभयदानवतिना जनोपमानेन भवितव्यम् ॥ १ ॥ (२) करा अपि स्वभावेन विषयविषवशानुगा अपि भूत्वा ।
भावितजिनवचनमनसः त्रैलोक्यमुखा वहा भवन्ति ॥ १ ॥