SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रे तबाह पूर्वमप्राप्तधर्मापि परमानन्दनन्दिता। योगप्रभावतः प्राप मरुदेवा परं पदम् ॥ ११ ॥ मरुदेवा हि स्वामिनी आ संसारं त्रसत्वमात्रमपि नानुभूतवती किं पुनर्मानुषत्वं तथापि योगबलसमृद्धेन शुलध्यानाग्निना चिरसञ्चितानि कर्मेन्धनानि भस्मसात्कृतवती । यदाह 'जह एगा मरुदेवा अच्चंतं थावरा सिद्धा । मरुदेवाचरितं चोक्तप्रायम् ॥ ११ ॥ ननु जन्मान्तरेऽपि अकृतक्रूरकर्मणां मरुदेवादीनां योगबलेन युक्तः कम्मक्षयः ये त्वत्यन्तक्रूरकर्माणस्तेषु योगः कुण्ठतामप्यासादयेत् । इत्याह-- ब्रह्मस्त्रीभ्रूणगोघातपातकानरकातिथेः । दृढप्रहारिप्रभृतेर्योगो हस्तावलम्बनम् ॥ १२ ॥ ब्रह्मणो ब्राह्मणस्य स्त्रिया वनिताया भ्रूणस्य गर्भस्य गर्भिण्याच गोर्धनोस्तेषां घातः स एव पातकं तस्मात् । यद्यपि समदर्शिना ब्राह्मणाब्राह्मणयोः स्त्रीपुरुषयो<णाभ्रूणयोर्गवागवीर्घाते अविशे षेण पापबन्धः । (१) यथा एका मरुदेवा अत्यन्तं स्थावरा सिद्धा। . ..
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy