________________
प्रथमः प्रकाशः ।
८१ पश्यन्नसौ स्वमादर्शेऽपश्यत्स्रस्ताङ्गुलीयकाम् । अङ्गुलिं गलितज्योत्सां दिवा शशिकलामिव ॥ १८ ॥ ततः प्रोद्भिननिर्वेदात्प्रत्यङ्गोज्झितभूषणम् । खमपश्यहतीकं शीर्मपर्णमिव द्रुमम् ॥ १८ ॥ अचिन्तयञ्च धिगहो वपुषो भूषणादिभिः । श्रीराहार्येव कुड्यस्य पुस्ताद्यैरिव कम्मभिः ॥ २० ॥ अन्त:क्लिनस्य विष्टाद्यैर्मलैः स्रोतोभवैर्बहिः । चिन्त्यमानं किमप्यस्य शरीरस्य न शोभनम् ॥ २१ ॥ इदं शरीरं कर्पूरकस्तूरोप्रभृतीन्यपि । दूषयत्येव पाथोदपयांस्यूषरभूरिव ॥ २२ ॥ विरज्य विषयेभ्यो यैस्तपे मोक्षफलं तपः । तैरेव फलमेतस्य जगहे तत्त्ववेदिभिः ॥ २३ ॥ इति चिन्तयतस्तस्य शुक्लध्यानमुपेयुषः । उत्पेदे केवलज्ञानमहो योगस्य जृम्भितम् ॥ २४ ॥ रजोहरणमुख्यानि मुनिचिह्नानि तत्क्षणात् । विनीत उपनीयास्मै नमश्चक्रे दिवस्पतिः ॥ २५ ॥ तद्राज्येऽकत तत्पुत्रमादित्ययशसं तदा । यदाद्यादित्यवंशोऽयमद्याप्यस्ति महोभुजाम् ॥५२६॥१०॥ स्यान्मतं युक्तं भरतस्य पूर्वजन्मार्जितयोगसमृद्धिबलक्षपिताशुभकम्मणः कर्मलेशक्षपणाय योगप्रभाववर्णनम् । यस्तु जन्मान्तरेषु अलवरत्नत्रयोऽत एवाक्षपितकर्मा मानुषत्वमात्रमण्य प्राप्तवान् । स कथमनन्तकालपचितशुभाशुभकर्मनिर्मूलनमनुभवेत् ।