________________
। योगशास्त्रे तदा निर्वाणमहिमा 'चक्र शक्रादिभिः सुरैः । अस्तोकशोकः शक्रेण भरतशोऽप्यबोध्यत ॥ ८ ॥ चक्रऽथ भरतो' रत्नमयमष्टापदोपरि । सिंहनिषद्याप्रासादमष्टापदमिवापरम् ॥ १० ॥ तत्र च स्वामिनो मानवर्णसंस्थानशोभितम् । रत्नोपलमयं बिम्बं स्थापयामास चक्रभृत् ॥ ११ ॥ स्वामिशिष्टतयोविंशभावितीर्थकतामपि । यथावमानसंस्थानवर्णबिम्बान्यसूत्रयत् ॥ १२ ॥ भ्रातृणां नवनवतेरपि तत्र महात्मनाम् । रचयामास रत्नाश्मस्तूपाननुपमाबृपः ॥ १३ ॥ पुनरेत्य निजां राजधानी राजशिरोमणिः । यथावद्राज्यमशिषप्रजारक्षण दीक्षितः ॥ १४ ॥ स कर्मभिर्भोगफलैः प्रेर्यमाणो निरन्तरम् । बुभुजे विविधान्भोगान् साक्षादिव दिवस्पतिः ॥ १५ ॥ नेपथ्यकम्मनिम्मातुमपरेधुरगादसौ। मध्ये शुद्धान्तनारीणां ताराणामिव चन्द्रमा: ॥ १६ ॥ तत्र साङ्गविन्यस्तरत्नाभरणबिम्बितैः । स्त्रीजनैर्युगपत्प्रेम्णा परिरब्ध इवाभवत् ॥ १७ ॥
(१) ग च प्रभोश्चक्रे सुरासुरैः। (२) ख च ततोऽसौ विधे।