________________
प्रथमः प्रकाशः ।
व्यापकं हृदयमिव सर्वासां श्रुतसम्पदाम् । नम:स्वस्तिस्वधास्वाहावषडर्थमिवापृथक् ॥ १८ ॥ विशुद्धधम्मनिर्माणप्रकर्षमिव केवलम् । समस्ततपसां पिण्डीभूतं फलमिवाखिलम् ॥ ८ ॥ परभागमिवाशेषगुणराशेरनश्वरम् । उपघ्नमिव निर्विघ्नं श्रेयो निःश्रेयसश्रियः ॥ ५०० ॥ प्रभावस्यैकधामेव मोक्षस्य प्रतिमामिव । कुलवेश्मेव विद्यानां फलं सर्वाशिषामिव ॥ १ ॥ पार्यवयंचरित्राणामात्मदर्शमिवामलम् । कूटस्थं प्रशममिव जगतो दत्तदर्शनम् ॥ २ ॥ दुःखशान्तेरिव हारं ब्रह्मचर्यमिवोज्वलम् ।। पुण्यरुपनतं जीवलोकस्येवैकजीवितम् ॥ ३ ॥ मृत्युव्याघ्रमुखादेतदाक्रष्टुमखिलं जगत् । बाहुं प्रसारितमिव निर्वाणेन कपालुना ॥ ४ ॥ ज्ञानमन्दरसंक्षुब्धञयाम्भोधेः समुत्थितम् । अपरं पीयूषमिव देहभाजाममृत्यवे ॥ ५ ॥ विश्वाभयप्रदानेन समाखासितविष्टपम् । शरणं त्वां प्रपत्रोऽस्मि प्रसौद परमेश्वर ॥ ६ ॥ तत्र च त्रिजगनाथमृषभस्वामिनं ततः । एकाग्रमनसोपासाञ्चक्र चक्रधरश्चिरम् ॥ ७ ॥ अथाद्रौ तत्र साधूनां सहस्त्रैर्दशभिर्वृतः । दीक्षाकालाइते पूर्वलक्षे मोक्षं ययौ प्रभुः ॥ ८ ॥