________________
योगशास्त्रे करामलकवहिवं कलयन् केवल श्रिया । समीपे स्वामिनोऽध्यास्त सदः केवलभास्वताम् ॥ ८७ ॥ भरतोऽपि महारत्नेश्चतुर्दशभिराश्रितः। . चतुःषष्टिसहस्रान्तःपुरो नवनिधोखरः ॥ ८८॥ धम्मार्थकामान् साम्राज्यसम्पबल्ले: फलोपमान् । परस्पराविरोधेन यथाकालमसेवत ॥ ८८ ॥ अन्यदा विहरन् स्वामी जगामाष्टापदाचलम् । भरतोऽपि ययौ तत्र स्वामिपादान्विवन्दिषुः ॥ ८० ॥ सुरासुराचं समवसरणस्थं जगत्पतिम् । सः त्रिः प्रदक्षिणीकस्य नमस्कृत्येति तुष्टुवे ॥ ८१ ॥ विश्वासमिव मूर्तिस्थं सदृत्तमिव पिण्डितम् । प्रसादमिव निःशेषजगतामेकतः स्थितम् ॥ ८२ ॥ ज्ञानराशिमिवाध्यक्षं पुण्यस्येव समुच्चयम् । सर्वलोकस्य सर्वस्वमिवैकत्र समाहृतम् ॥ ८३ ॥ वपुःस्थं संयममिवोपकारमिव रूपिणम् । शौलमिव पादचारि क्षमामिव वपुमतीम् ॥ ८४ ॥ रहस्यमिव योगस्य विश्ववौर्यमिवैकगम् । सिडापायमिवावन्ध्यं कौशल्यमिव केवलम् ॥ ८५ ॥ मैत्रीमिव मूर्तिमती सदेहां करुणामिव । मुदितामिव पिण्ड स्थामुपेक्षामिव रूपिणीम् ॥ ८६ ॥ तपःप्रशमसज्ञानयोगमकमिवाहतम् । साक्षानयिकमिव सिद्धिं साधारणीमिव ॥ ७ ॥