________________
प्रथमः प्रकाशः । दुस्तपं तप्यमानोऽथ तपो बाहुबलिर्मुनिः । वर्षमेकं व्यतीयाय सह प्राग्जन्मकम्मभिः ॥ ७६ ॥ ततश्चामूढलक्ष्येण स्वामिना नाभिसूनुना। ब्राह्मी च सुन्दरी चानुनाते तत्याचमीयतुः ॥ ७७ ॥ अचतुश्च महासत्त्व समवर्णाश्मनस्तव । न युक्तं त्यक्तासङ्गस्य करिस्कन्धाधिरोहणम् ॥ ७८ ॥ एवम्भूतस्य ते हन्त कथं ज्ञानं प्ररोहति । अधःस्थितकरोषाग्नेः पादपस्येव पल्लवः ॥ ७ ॥ आत्मनैव विचार्य त्वमुत्तितीर्घर्भवोदधिम् । हस्तिनोऽस्मादवतर तरण्डादायसादिव ॥ ८० ॥ ततोऽसौ चिन्तयामास कुतस्त्यो हस्तिसङ्गमः । पादपारोहमारूढवल्लीव वपुषो मम ॥ ८१ ॥ त्यजेन्मुद्रां समुद्रोऽपि चलेयुरचला अपि । इमे तु भगवच्छिष्ये भाषते न मृषा क्वचित् ॥ २ ॥ पाः ज्ञातमथवाऽस्त्येष मान एव मतङ्गजः । स एव मे ज्ञानफलं बभञ्ज विनयद्रुमम् ॥ ८३ ॥ कथं कनीयसो भातृन्वन्दे धिगिति चिन्तितम् । तपसा ज्यायसां तेषां मिथ्यादुष्कृतमस्तु मे ॥ ८४ ॥ सुरासुरनमस्यस्य गत्वा भगवतोऽन्तिके । वन्दे कनिष्ठानपि तांस्तच्छिष्यपरमाणुवत् ॥ ८५ ॥ प्रचलत्पादमुत्पाव्य यावत्तावदसौ मुनिः । अवाप केवलज्ञानं हारं निर्वाणवेश्मनः ॥ ८६ ॥