________________
योगशास्त्रे भरतस्तं तथादृष्ट्वा विचार्य स्खं कुकर्म च। बभूव न्यञ्चितग्रीवो विविक्षुरिव मेदिनीम् ॥ ६५ ॥ शान्तरसं मूर्त्तमिव भ्रातरं प्रणनाम च । नेत्रयोरश्रुभिः कोष्णैः कोपशेषमिवोत्सृजन् ॥ ६६ ॥ प्रणमन् भरतस्तस्याऽधिकोपास्तिविधित्सया । नखादशेषु संक्रात्या नानारूप इवाभवत् ॥ ६७ ॥ सुनन्दानन्दनमुनेर्गुणस्तवनपूर्विकाम् । स्वनिन्दामित्यथाकार्षीत्स्वापवादगदौषधीम् ॥ ६८ ॥ धन्यस्त्वं तत्यजे येन राज्यं मदनुकम्पया । पापोऽहं यदसन्तुष्टो दुर्मदस्त्वामुपाद्रवम् ॥ ६८ ॥ स्वशक्तिं ये न जानन्ति ये चान्यायं प्रकुर्वते । जीयन्ते ये च लोभन तेषामस्मि धुरन्धरः ॥ ७० ॥ राज्यं भवतरोर्बीज ये न जानन्ति तेऽधमाः । तेभ्योऽप्यहं विशिष्ये यत्तदमुञ्चन् विदन्नपि ॥ ७१ ॥ त्वमेव पुत्रस्तातस्य यस्तातपथमन्वगः । पुत्रोऽहमपि तस्य स्यां चेद्भवामि भवादृशः ॥ ७२ ॥ विषादपङ्गमुत्सायं पश्चात्तापजलैरिति । तत्पुत्रं सोमयशसं तट्राज्ये स न्यवौविशत् ॥ ७३ ॥ तदादिसोमवंशोऽभूच्छाखाशतसमाकुलः । तत्तत्पुरुषरत्नानामेकमुत्पत्तिकारणम् ॥ ७४ ॥ ततो बाहुबलिं नत्वा भरतः सपरिच्छदः ।। पुरीमयोध्यामगमत्खराज्यश्रीसहोदराम् ॥ ७५ ॥