________________
प्रथमः प्रकाशः। मूर्ध्वान्ते भरतो बाहुबलिं दण्डेन दर्पतः। . ताडयामास दन्तीव तिर्यग्दन्तेन पर्वतम् ॥ ५४ ॥ दण्डेन बाहुबलिना निहतो भरतस्ततः । भूम्यामाजानुमग्नोऽस्थानिखात इव कौलकः ॥ ५५ ॥ किमेष चक्रवर्तीति भरतः कृतसंशयः । यावसंस्मृतवांश्चकं तावदागात्करेऽस्य तत् ॥ ५६ ॥ भूमेनिःसृत्य कोपेन महता भरतेखरः । चिक्षेप प्रज्वलच्चक्र कृतहाहारवं बलैः ॥ ५७ ॥ तच्चक्रं पार्खतो बाहुबलेन्विा न्यवर्तत । दैवतानि हि शस्त्राणि स्वगोत्रे प्रभवन्ति न ॥ ५८ ॥ पक्षत्रं प्रेक्ष्य तक्षाहुबेलि: कोपारुणेक्षणः । सचक्रं चूर्णयाम्येनमिति मुष्टिमुदक्षिपत् ॥ ५८ ॥ असाविव कषायधिगह भाटवधोद्यतः । विजित्य करणग्रामं कषायानव हन्मि तान् ॥ ६ ॥ इति सञ्जातसंवेगस्तदा तेनैव मुष्टिना। केशानुत्पाटयामास सामायिकमथाददे ॥ ६१ ॥ साधु साध्विति सानन्दं व्याहरन्तः सुरासुराः । उपरिष्टाहाहुबले: पुष्पष्टिं वितेनिरे ॥ ६२ ॥ गत्वा भगवतः पार्वे ज्ञानातिशयशालिनाम् । कनीयसां सोदराणां विधास्ये वन्दनां कथम् ॥ ६३ ॥ उत्पन्नकेवलज्ञानस्तत्तां यास्यामि पर्षदम्। इति तत्रैव मौनन सोऽस्थाप्रतिमया कती ॥६४॥ (युग्मम्)