SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ८४ योगशास्त्र पर्यस्याशेषसैन्यानि तूलानीव महाबलः । अभ्येत्य भरतं बाहुबलिरेवमवोचत ॥ ४४ ॥ हस्त्यश्वपत्तिघातेन किं मुधा पापदायिना | यद्यलं तत्त्वमेकाको युद्धप्रस्वैकाकिना मया ॥ ४५ ॥ एकाङ्गाजिं प्रतिज्ञाय दाभ्यामपि निवारिताः । सैनिका उभयेऽप्यस्थुः पश्यन्तः साक्षिणो यथा ॥ ४६ ॥ ततो दृग्युद्ध आरब्धे निर्निमेषविलोचनौ । देवैरपि नृदेवौ तौ देवाविति वितर्कितौ ॥ ४७ ॥ भरते निर्जिते तत्र 'साक्षीभूतामरं तयोः । वाग्युद्धमभवत्पक्षप्रतिपक्षपरिग्रहात् ॥ ४८ ॥ तत्रापि हीनवादित्वं भरते समुपेयुषि । भूभुजौ भुजयुद्धेन युयुधाते महाभुजौ ॥ ४८ ॥ भरतो लम्बमानोऽथ बाहौ बाहुबलेः स्थिरे । शाखामृगो महाशाखिशाखायामिव वोचितः ॥ ५० ॥ भरतस्य महाबाहोरपि बाहुबलिर्बलौ । एकेन बाहुना बाहुं लतानालमनामयत् ॥ ५१ ॥ प्रारब्धे मुष्टियुद्धेऽथ पेतुर्भरतमुष्टयः । बाहुबली समुद्रोमिंघाता इव तटाचले ॥ ५२ ॥ आहतो बाहुबलिना वज्रकल्पेन मुष्टिना | पपात भरतः पृथ्वंग्रा स्वसैन्याऽजलैः सह ॥ ५३ ॥ (१) ख ग च सभ्योभूतामरं तयोः ।
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy