________________
प्रथमः प्रकाशः ।
एक एवावयोः स्वामी भगवानादितीर्थतत् । तस्मिन्विजयिनि स्वामी कथशारं ममापरः ॥ ३३ ॥ भाताऽस्माभीः स चाज्ञेश आज्ञापयतु यद्यलम् । ज्ञातिनेहेन किं वजं वजेण न विदार्यते ॥ ३४ ॥ सुरासुरनरोपास्त्या प्रोतोऽस्त्वेष मयास्य किम् । मार्ग एव क्षमः स्तम्बे रथः सज्जोऽपि भज्यते ॥ ३५ ॥ तातभक्लो महेन्द्रश्चेज्जेष्ठं तं तातनन्दनम् । आसयत्यासनस्याइँ स किं तेनापि दृप्यति ॥ ३६ ॥ तेऽन्ये तस्मिन् समुद्रे ये ससैन्याः समुष्टिवत् ।। तेजोभिदुःसहोऽहं तु हन्त स्यां वडवानलः ॥ ३० ॥ पत्तयोऽखा रथा नागा: सेनानौर्भरतोऽपि च । मयि सर्वे प्रलीयन्तां तेजांसीवार्कतेजसि ॥ ३८ ॥ याहि दूत स एवैतु राज्यजीवितकाम्यया । तासदत्तांशतुष्टेन मयेवोपेक्षितास्य भूः ॥ ३८ ॥ दूतेनागत्य विज्ञप्ते यथार्थे तेन तत्क्षणम् । युयुत्सर्बाहुबलिना भरतोऽथाभ्यषणयत् ॥ ४० ॥ छादयन्मेदिनी सैन्यैर्धन द्यां धनैरिव । महाबाहुस्ततो बाहुबलिर्भरतमभ्यगात् ॥ ४१ ॥ उभयोरपि वाहिन्योर्महासुभटयादसोः । अन्योऽन्यास्फालितास्त्रोम्भिःसम्फेटोऽभूभयानकः ॥ ४२ ॥ तत्सैनिकानामन्योऽन्यं कुन्ताकुन्ति शराशरि । आमन्त्रिताडदेवः प्रावर्त्तत तणक्षण: ॥ ४३ ॥