________________
योगशास्त्र
तस्य षणवतिग्रामकोटिभर्तुः पदातयः । कोट्यः षस्वति: सिंहा इव त्रासाय कस्य न ॥ २२ ॥ एकः सुषेणसेनानौदण्डपाणिः समापतन् । कतान्त इव किं शक्यः सोढुं देवासुरैरपि ॥ २३ ॥ अमोघं बिभ्रतश्चक्रं चक्रिणो भरतस्य तु । सूर्यस्येव तमस्तोमः स्तोकिकैव त्रिलोक्यपि ॥ २४ ॥ तेजसा वयसा ज्येष्ठो नृपश्रेष्ठः स सर्वथा । राज्यजीवितकामेन सेव्यो बाहुबले त्वया ॥ २५ ॥ अथ बाहुबलिर्बाहुबलापास्तजगदलः । ऊचे भूभङ्गभृद्दौरध्वानोऽर्णव इवापरः ॥ २६ ॥ युक्तं यदुक्तं भवता लोभनं क्षोभणं वचः। दूताः खलु यथावस्थस्वामिवाचिकवाचिन: ॥ २७ ॥ सुरासुरनरेन्द्रार्थो न तातोत्तमविक्रमः । श्लाघातुर्मे भरत: कीर्तितो दूत नूतनः ॥ २८ ॥ करदोभूय भूपाला नागच्छन्तु कथं नु तम् । दृश्यते नत्वसौ यस्य भ्राता बाहुबलिर्बली ॥ २८ ॥ आवयोननु मार्तण्डपसरुट्खण्डयोरिव । किं न स्याव्यवहितयोरपि प्रीतिः परस्परम् ॥ ३० ॥ सदा मनसि तिष्ठामस्तस्य भातुरहो वयम् । गत्वा किमतिरिच्येत प्रौतिर्नेसर्गिको हि नः ॥ ३१ ॥ आजवानागताः सत्यं कौटिल्यं भरतेन किम् । विमृश्यकारिणः सन्तो दूयन्ते किं खलोक्तिभिः ॥ ३२ ॥