SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाश:। त्वज्ञातुश्चक्रवर्तित्वाभिषेके के महीभुजः । मङ्गल्योपायनकराः करदीभूय नावयुः ॥ ११ ॥ सूर्योदय इवाम्भोजखण्डस्य भरतोदयः । श्रिये तवैव किन्त्वस्याभिषेके न त्वमागमः ॥ १२ ॥ ततः कुमार भवतो ऽसमागमनकारणम् । ज्ञातुं राज्ञा नयज्ञेनाज्ञापितोऽहमिहागमम् ॥ १३ ॥ नागा यद्यार्जवेनापि सत्र कोऽपि जन: पुनः । सवाविनीततां ब्रूते यच्छिद्रान्वेषिण: खला: ॥ १४ ॥ पिशुनानां प्रवेशं तद्यत्नाहोपयितुं तव। प्रागन्तुं युज्यते तत्र का नपा स्वाम्युपासने ॥ १५ ॥ भ्रातेति यदि निर्भीको नागास्तदपि नोचितम् । आज्ञासारा न रह्यन्ते जातेयेन महीभजः ॥ १६ ॥ अयस्कान्तैरिवायांसि देवदानवमानवाः । कष्टास्तेजोभिरधुना ह्येकं भरतमन्वगुः ॥ १७ ॥ यम सनदानेन वासवोऽपि सखौयति । सेवामात्रेण तं हन्तानुकूलयसि किं नहि ॥ १८ ॥ वीरमानितया यहा राजानमधमन्यसे । त्वं हि तस्मिन् ससैन्योऽपि समुद्रे सक्नु मुष्टिवत् ॥ १८ ॥ लक्षाश्चतुरशीतिस्तहजाः शक्रेभसनिभाः । सह्याः केनाभिसर्पन्तः पर्वता इव जङ्गमाः ॥ २० ॥ तावतोऽश्वाम् रथांचास्य विष्वक प्लावयतो महीम् । कल्लोलानिव कल्पान्तोदधेः कः स्वलयिष्यति ॥ २१ ॥
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy