SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रे अथ विज्ञपयामास सेनानीभरतेश्वरम् । न चक्रं चक्रशालायां विशत्यद्यापि नः प्रभो ॥ ४०० ॥ वामिन् दिग्विजये कश्चिदानाबाह्यो नृपः क्वचित् । विवर्त्तते डोल इव घरट्टे भ्रमति प्रभो ॥ १ ॥ पाः ज्ञातं भरतोऽवादीलोकोत्तरपराक्रमः । अस्महंधुर्महाबाहुरेको बाहुबलिबली ॥ २॥ एकतो गरुडश्चैकोऽन्यतोऽप्यहिकुलानि च। मृगारिको यत्कु-न्मृगकुलाः ......... ॥ ३ ॥ एकतः संहताः सर्वे देवदानवमानवाः । तथान्यतो बाहुबलिः प्रतिमलो न विद्यते ॥ ४ ॥ एकतश्चक्रशालायां चक्रं न प्रविशत्यदः । नेच्छत्याज्ञामन्यतो बाहुः सङ्कटे पतितोऽस्माहम् ॥ ५ ॥ किंवा बाहुबलिः सोऽयमाज्ञां कस्यापि मन्यते । सहते नाम पOणं केसरी किं कदाचन ॥ ६ ॥ एवं विमृशतस्तस्य सेनानीर्जगदे ह्यदः । । स्वामिस्त्वदलस्याग्रे त्रैलोक्यं च दृणायते ॥ ७ ॥ वैमात्रयं कनीयांसमथ बाहुबलिं प्रति । दूतं तक्षशिलापुयां प्रेषयामास पार्थिवः ॥ ८॥ शैलशृङ्गे सिंहमिवोत्तुङ्गसिंहासने स्थितम् । नत्वा बाहुबलिं दूतो युक्तिस्यूतमवोचत ॥ ८ ॥ त्वमेकः माध्यमे यस्य ज्येष्ठो भ्राता जगज्जयो। षटखण्डभरताधीशो लोकोत्तरपराक्रमः ॥ १० ॥
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy