________________
प्रथमः प्रकाशः।
GE
सोऽङ्गारानलसन्तापान्मध्याह्नातपपोषितात् । उद्भूतया दृषाक्रान्तः सव्वं दृतिपयः पपी ॥ ८८ ॥ तेनाप्यच्छिन्नटष्णः सन् सुप्तः स्वप्ने गृहं गतः । पालूकलशनन्दानामुदकान्यभितोऽप्यपात् ॥ ८ ॥ तज्जलैरप्यशान्तायां तृष्णायामग्नितैलवत् । वापीकूपतडागामि पायंपायमशोषयत् ॥ ८१ ॥ तथैव टषितोऽथापासरितः सरितांपतीन् । न तु तस्य तृषात्रुट्यबारकस्येव वेदना ॥ २ ॥ मरुकूपे ततो यातः कुशपूलं स रज्जुभिः । बवा चिक्षेप पयमे किमातः कुरुते न हि ॥ २३ ॥ दूराम्बुत्वेन कूपस्य मध्येऽपि गलिताम्बुकम् । नियोत्य पूलं द्रमकः स्नेहप्रोतमिवापिबत् ॥ ८४ ॥ न च्छिन्ना यार्णवाद्यैस्तृट् छेद्या पूलाम्भसा न सा । तहहः स्वःसुखाच्छिना छेद्या राज्यश्रिया किमु ॥ ८५ ॥ अमन्दानन्दनिःस्यन्दिनिर्वाणप्राप्तिकारणम् ।। वत्साः संयमराज्यं तद्युज्यते वो विवेकिनाम् ॥ ८६ ॥ तत्कालोत्पन्नवैराग्यवेगा भगवदन्तिके । तेऽष्टानवतिरप्याश प्रव्रज्यां जराहुस्ततः ॥ ७ ॥ अहो धैर्यमहो सत्त्वमहो वैराग्यधीरिति । चिन्तयन्तस्तत्वरूपं दूता राजे व्यजिज्ञपन् ॥ ८८ ॥ तत् श्रुत्वा भरतस्तेषां राज्यानि जराहे स्वयम् । लाभादिवदितो लोभी राजधर्मो यसौ सदा ॥ ८ ॥