________________
७८
योगशास्त्रे . समापतन्तं किं काले कालं प्रस्खलयिष्यति । किं जराराक्षसों देहग्राहिणीं निग्रहीथति ॥ ७ ॥ बाधाविधायिनः किं वा व्याधिव्याधान् हनिष्यति । यथोत्तरं वईमानां तृष्णां वा दलयिष्यति ॥ ८० ॥ ईसेवाफलं दातुं न चेद्भरत ईश्वरः । मनुष्यभावे सामान्ये तहिं कः केन सेव्यताम् ॥ १ ॥ प्राज्यराज्योऽप्यसन्तोषादस्मद्राज्यं जिक्षति । स्थामा चेत्तहयमपि तस्य तातस्य सूनवः ॥ २ ॥ प्रविज्ञपय्य तातं तु सोदयेणाग्रजन्मना। दूत त्वत्स्वामिना योडुं न वयं प्रोमहामहे ॥ ३ ॥ ते दूतानभिधायैवमृषभस्वामिनं ययुः । नत्वा भरतसन्दिष्टं तच्च सर्व व्यजिज्ञपन् ॥ ८४ ॥ अम्लानकेवलादर्शसंक्रान्ताशेषविष्टपः। कपावान् भगवानादिनाथोऽपोत्यादिदेश तान् ॥ ८५ ॥ अनेकयोनिसम्पातानन्तबाधानिबन्धनम् । अभिमानफलैवेयं राज्यश्रीः सापि नखरौ ॥ ८६ ॥ किञ्च या स्वःसुखैस्तृष्णा नात्रुट्यप्राग्भवेषु वः । साङ्गारकारकस्येव मर्त्यभोगैः कथं जुटेत् ॥ ८७ ॥ अङ्गारकारकः कथिदादाय पयसो दृतिम् । जगाम कर्तुमगारानरण्ये रीणवारिणि ॥ ८८ ॥
(१) च तरखरूपं व्यजिज्ञपन् ।