SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशः । सेनापतिः सुषेणोऽपि गङ्गादक्षिणनिष्कुटम् । महावनं महावायुरिवोन्मूल्य समाययौ ॥ ६८ ॥ समा सहस्रैः षष्ट्यैवं जित्वा षट्खण्डमेदिनीम् । चक्रमार्गानुगोऽयोध्यां जगाम जगतीपतिः ॥ ६८ ॥ ततो हादशभिर्वबैरागत्यागत्य पार्थिवैः । प्रचक्रे चक्रवर्त्तिवाभिषेको भरतशितुः ॥ ७० ॥ कुर्वता स्वकुटम्बस्य सारां च ददृशे कशाम् । सुन्दरौं चास्थिभूतां च चुकोप भरतेखरः ॥ ७१ ॥ जचे प्राहरिकान् किं रे महेहे नास्ति भोजनम् । यदेवमोशी जाता अस्थिचर्ममयो कथम् ॥ ७२ ॥ खामिन् विजययात्राभूत्तव तावत्प्रभृत्यपि । प्राचामाम्लान्यविश्रान्तमकार्षीत्सुन्दरी यतः ॥ ७३ ॥ अत्रान्तरे च भगवान् विहृत्य वसुधातले । भगवान् समवासार्षीदष्टापदगिरी ततः ॥ ७४ ॥ श्रुत्वा च भरताधीशः स्वामिवन्दनहेतवे । आगात्तद्देशनां श्रुत्वा व्रतं जग्राह सुन्दरी ॥ ७५ ॥ भ्रातृननागतान् ज्ञात्वा तस्मिबपि महोत्सवे । तेषामेकैकशी दूतान् प्राहिणोद्भरतेश्वरः ॥ ७६ ॥ राज्यानि चेममोहवे सेवध्वं भरतं ततः । दूतैरित्युदिताः सर्वेऽप्यालोच्यैवावदबिदम् ॥ ७७ ॥ . विभज्य राज्यं दत्तं नस्तान भरतस्य च । संसेव्यमानो भरतोऽधिकं किं नः करिष्यति ॥ ७८ ॥
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy