________________
७६
योगशास्त्रे
प्रेमगगदवादिन्या गाढमभ्यर्थ पार्थिवः । रिरंसमानया निन्ये तया निजनिकेतनम् ॥ ५७ ॥ भुञ्जानो विविधान् भोगांस्तया सह महीपतिः । एकाहमिव वर्षाणां सहस्रं सोऽत्यवाहयत् ॥ ५८ ॥ गुहां खण्डप्रपाताख्यामखण्डितपराक्रमः । ततः स्थानानृपः प्राप करटीव वनाद्दनम् ॥ ५८ ॥ कृतमालकवत्तत्र नाट्य मालमसाधयत् । अष्टमेन नृपस्तद्वत्तस्य चाष्टाह्निकां व्यधात् ॥ ६० ॥ सुषेणोद्दाटितद्दारकपाटां तां गुहां नृपः । प्राविशद्दक्षिणं तस्या द्वारमुज्जघटे खयम् ॥ ६१ ॥ निर्ययौ गुहामध्यात्केशरोव नरेश्वरः ।
स्कन्धावारं च निदधे गाङ्ग रोधसि पश्चिमे ॥ ६२ ॥ नवापि निधयो नागकुमाराधिष्ठितास्तदा । गङ्गाकूलमनुप्राप्तं राजानमुपतस्थिरे ॥ ६३ ॥ इत्यूचुस्ते वयं गङ्गामुखमागधवासिनः । आगतास्त्वां महाभाग भक्द्भाग्यैर्वशीकृताः ॥ ६४ ॥
यथाकाममविश्रान्तमुपभुङ्क्ष्व प्रयच्छ च । अपि क्षीयेत पाथोऽब्धौ न तु चीयामहे वयम् ॥ ६५ ॥ सहस्रैर्नवभिर्यक्षैः किङ्करेरिव तावकैः ।
आपूर्यमाणः सततं चक्राष्टकप्रतिष्ठिताः ॥ ६६ ॥ द्वादशयोजनायामा नवयोजनविस्तृता: ।
भूमध्ये सञ्चरिष्यामो देव त्वत्पारिपार्श्विकाः ॥ ६७ ॥ ( युग्म