________________
प्रथमः प्रकाशः ।
भतिगर्भमिति प्रोच्य भरतेशाय दत्तवान् । विनम्रो विनमि रोरत्नं रत्नोच्चयं नमिः ॥ ४७ ॥ ततो राजा विसृष्टौ तौ राज्यान्यारोप्य सूनुषु ।। विरक्तावषमेशांगिमूले जग्गृहतुव्रतम् ॥ ४८ ॥ ततोऽपि चलितवतश्चक्ररत्नस्य पृष्ठतः । गच्छवासादयामास राजा मन्दाकिनीतटम् ॥ ४८ ॥ उत्तरं निष्कुटं गाङ्गं सुषेणोऽप्यभिषेणयन् । तरसा साधयामास किमसाध्यं महात्मनाम् ॥ ५० ॥ राजाप्यष्टमभक्तोन गङ्गादेवीमसाधयत् । पान भरतं सापि देवताहरुपायनैः ॥ ५१ ॥ ततो गङ्गानदीकूले कमलामोदमालिनि । वासागार इवोवास वसुमत्येकवामवः ॥ ५२॥ भरतं रूपलावण्यकिङ्करीकृतमन्मथम् । तत्रावलोक्य गङ्गापि प्राप क्षोभमयी दशाम् ॥ ५३ ॥ विराजमाना सर्वाङ्ग मुक्तामयविभूषणैः । वदनेन्दोरनुगतैस्तारैस्तारागणैरिव ॥ ५४ ॥ वस्त्राणि कदलीगर्भत्वक्सगर्भाणि बिभ्रती। खप्रवाहपयांसीव तद्रूपपरिणामतः ॥ ५५ ॥ रोमाञ्चकञ्चकोदञ्चत्कुचस्फुटितकञ्चका । सद्यस्तरङ्गितापाङ्गा गङ्गा भरतमभ्यगात् ॥ ५६ ॥
(त्रिभिर्विशेषकम् )