________________
08
योगशास्त्रे नितम्बमुत्तरमथ वैताब्याटेरवाप सः । सत्र स्वस्थपरीवारं स्कन्धावारं न्यधत्त च ॥ ३६ ॥ ततो नमि विनम्याख्यौ विद्याधरपती प्रति । आदिदेश विशामोशो मार्गणं दण्डमार्गणम् ॥ ३० ॥ वैताव्यशृङ्गादुत्तीर्य कुपितौ दण्डयाचनात् । आजम्मतुर्युयुत्सू तो विद्याधरबलातौ ॥ ३८ ॥ कुर्वन्मणिविमानैद्यां बहुसूर्यमयौमिव । प्रज्वलनिः प्रहरणैस्तडिन्मालामयौमिव ॥ ३८ ॥ उद्दामदुन्दुभिध्वानर्मेघघोषमयीमिव । विद्याधरबलं व्योमन्यपश्यद्भरतस्ततः ॥ ४० ॥ दण्डार्थिन् दण्डमस्मत्तस्त्वं गृह्णासोति भाषिणी । आहवायाह्वयेतां तो विद्यादृप्तौ महीपतिम् ॥ ४१ ॥ अथ ताभ्यां ससैन्याभ्यां प्रत्येक युगपच्च सः । युयुधे विविधैर्युडैर्युडाळ यज्जयश्रियः ॥ ४२ ॥ युधा हादशवार्षिक्या विद्याधरपती जितौ। प्रानली प्रणिपत्यैवं भरताधीशमूचतुः ॥ ४३ ॥ रवेरुपरि किं तेजो वायोरुपरि को जवी। मोक्षस्योपरि किं सौख्यं कश्च शूरस्तवोपरि ॥ ४४ ॥ ऋषभो भगवान् साक्षादद्य दृष्टस्त्वमार्षभ । अज्ञानाद्योधितोऽस्माभिः कुलस्वामिन् सहस्त्र तत् ॥ ४५ ॥ किरीट इव नो मूईि मण्डनं तव शासनम् । कोशो वपुरपत्यानि सर्वमन्यच्च तावकम् ॥ ४६ ॥