SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ -७३ प्रथमः प्रकाशः । कैश्चित्प्रयाणकैगच्छन् गजेन्द्र इव लीलया। नितम्बं दक्षिणं क्षुद्रहिमाद्रेः प्राप भूपतिः ॥ २६ ॥ उद्दिश्य क्षुद्रहिमवत्कुमारं तत्र चार्षभिः । चक्रेऽष्टमं कार्यसिद्धेस्तपोमङ्गलमादिमम् ॥ २७ ॥ गत्वाष्टमान्ते हिमवत्पर्वतं त्रिरताडयत् । साटोपो रथशौर्षेण शीर्षण्यः पृथिवीभुजाम् ॥ २८ ॥ भरतेशस्तत: क्षुद्रहिमवहिरिमूई नि । हासप्ततिं योजनानि नामाकं बाणमक्षिपत् ॥ २८ ॥ बाणमालोक्य हिमवत्कुमारो 'ऽप्येत्य सत्वरम् । भरताज्ञां स्वशिरसा शिरस्त्राणमिवाग्रहीत् ॥ ३० ॥ गत्वा ऋषभकूटाट्रिमृषभस्वामिभूस्ततः । जघान रथशीर्षण त्रिर्दन्तेनेव दन्तिराट् ॥ ३१ ॥ अवसर्पिण्यां टतीयारप्रान्ते भरतोऽस्माहम् । चक्रोति वर्णान् काकिण्या तत्पूर्वकटकेऽलिखत् ॥ ३२ ॥ ततो व्यावृत्त्य सदृत्तः स्कन्धावारं निजं ययौ । चकाराष्टमभक्तान्तपारणं च महीपतिः ॥ ३३ ॥ ततश्च क्षुद्रहिमवत्कुमारस्य नरेश्वरः । अष्टाहिकोत्सवं चक्रेऽनुरूपं चक्रिसम्पदः ॥ ३४ ॥ ततो निववृते चक्रवर्ती चक्रपथानुगः । सिन्धुगङ्गान्तरं कुर्वन् सङ्कटं विपुलैबलैः ॥ ३५ ॥ (१) क छ अभ्येत्य।
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy