SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ७२ योगशास् भरतो भरतक्षेत्रोत्तरखण्डं प्रविष्टवान् । अयुध्यत ततो म्लेच्छैर्दानवैरिव वासवः ॥ १६ ॥ जिता राज्ञा 'महेशेन म्लेच्छाः प्रतिजयेच्छवः । उपासाञ्चक्रिरे मेघमुखान् स्वकुलदेवताः ॥ १७ ॥ मुसलाकारधाराभिरारादासारदारुणम् । ते प्रावर्त्तन्त संवर्त्त इव विष्वक् प्रवर्षितुम् ॥ १८ ॥ चर्मरत्नमधस्तेने राज्ञा द्वादशयोजनौम् । तद्ददूर्द्धं छत्ररत्नं मध्ये च निदधे चमूः ॥ १८ ॥ मणिरत्नमुरुध्वान्तध्वंसाय वसुधाधिपः । पूर्वाचल इवादित्यं छत्त्रदण्डे न्ययोजयत् ॥ २० ॥ तरदण्ड इवाराजत्तद्रत्नद्दयसम्पुटम् । ततस्तदादिलो केऽभूद्ब्रह्माण्डमिति कल्पना ॥ २१ ॥ पूर्वाह्णे वापितान् शालीनपराह्णे च पक्तिमान् । प्रत्यावासं गृहपतिर्भोजनार्थमपूरयत् ॥ २२ ॥ वर्षं वर्षं च निर्व्विणैरूचे मेघकुमारकैः । किराताश्चक्रवर्त्येष न साध्योऽस्मादृशामपि ॥ २३ ॥ भग्नेच्छास्त हिरा म्लेच्छाः शरणं भरतं ययुः । अग्निना किल दग्धानामग्निरेव महौषधम् ॥ २४ ॥ ततश्चाजय्यमजयत्सिन्धोरुत्तरनिष्कुटम् । स्वाम्यादेशेन सेनानीः संसारमिव योगवित् ॥ २५ ॥ (१) ख ग च महेच्छेन ।
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy