________________
प्रथमः प्रकाशः।
पक्षाविवाद्रवण दण्डरत्नेन ताडिती । तडत्तडिति कुर्वाणी विश्लिष्टौ तौ बभूवतुः ॥ ५ ॥ तहहाहारवत्सद्यः सविकाशमुखो भृशम् । सुषेणी भरतायेदं गत्वा नत्वा व्यजिज्ञपत् ॥ ६ ॥ अद्याभूत्त्वप्रभावेण गुहाहारमपार्गलम् । यतेनियसहारं तपसेवातिभूयसा ॥ ७ ॥ मघवैरावणमिवाधिरूढो गन्धवारणम् । तत्कालं भरताधीशो गुहाहारमुपाययौ ॥ ८ ॥ अन्धकारापहाराय मणिरत्नं न्यधाबृपः । दक्षिणे कुभिनः कुम्भे पूर्वाद्राविव भास्करम् ॥ ८ ॥ ततोऽनुगचमूचक्रश्चक्रमार्गानुगो गुहाम् । प्रविवेश विशामोशो मेघमध्यमिवार्यमा ॥ १० ॥ गोमूनिकाक्रमेणानुयोजनान्तं तमश्छिदे । पार्खयोः काकिणीरत्नेनालिखमण्डलानि सः ॥ ११ ॥ दीप्रेरकोनपञ्चाशमण्डलैः काकिणोक्तः । मार्तण्डमण्डलोद्योतैस्तहाहिन्योऽवहन्मुखम् ॥ १२ ॥ भूपोऽथापश्यदुभग्ननिमग्ने निम्नगे ययोः । एकत्रीमज्जति ग्रावान्यस्यां मनत्यलावपि ॥ १३ ॥ अतिदुस्तरताभाजीरपि सारणिलीलया । तयोर्नद्योरनवद्या पद्यां व्यधित वईकिः ॥ १४ ॥ पद्यया ते समुत्तीर्य तद्गुहाकुहराबृपः । निरगच्छमहामेघमण्डलादिव भास्करः ॥ १५ ॥