SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ योगशास्त्र वैताव्ये तमिस्रा वचकपाटपिहितां गुहाम् । उहाटयितमादिक्षत् 'सुषेणमृषभात्मजः ॥ ५ ॥ सुषेणोऽपि प्रभोराज्ञां शेषावभूटि धारयन् । प्रदेशेऽगात्तमिस्राया गुहाया पदवीयसि ॥८६॥ तदधिष्ठादेवं च कृतमालमनुस्मरन् । तस्थौ पौषधशालायामष्टमेन विशुद्धधीः ॥ ८७ ॥ मात्वा चाष्टममतान्ते बाह्याभ्यन्तरशौचभृत् । पर्यधाच्छुचिवस्त्राणि विविधाभरणानि च ॥८॥ होमकुण्डोपमे धूपदहने ज्वलदग्निके । 'धूपमुष्टीः क्षिपन् स्वार्थसाधनौराहुतीरिव ॥ ८ ॥ ततः स्थानादसौ तस्या गुहाया हारमभ्यगात्। कोशहारं तदायुक्त इवोद्घाटयितुं त्वरी ॥ ३० ॥ दृष्टमात्र तल्कपाटयुगलं प्रणनाम च। नेतारमिव तदन्तःप्रवेश: स्यात्कुतोऽन्यथा ॥ १ ॥ गुहाहार ततोऽष्टाष्टमङ्गलालेखपूर्वकम् । सोऽष्टालिकामहिमानं चक्रे खमहिमोचितम् ॥ २ ॥ दण्डरत्नं वचसारं सर्वशत्रुविनाशनम् । प्रथ सेनापतिर्वचं वजपाणिरिवाददे ॥ ३ ॥ पदानि कतिचिसोपमृत्य वक्र इव ग्रहः । दण्डरवेन झटिति कपाटौ विरताडयत् ॥ ४ ॥ (१). सच ततस्तमषभात्मजः।
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy