________________
प्रथमः प्रकाशः । तामुरीकतसेवां च विसृज्य तपारणः । .. अष्टातिकोत्सवं तस्या विदधे 'वसुधाधवः ॥ ८५ ॥ सोऽथ चक्रानुगो गच्छन् ककुभोत्तरपूर्वया । भरताईयाघाट वैताब्याद्रिमवाप च ॥८६॥ नितम्बे दक्षिणे तस्य विन्यस्त शिबिरस्ततः। .. अधिवैताळ्यकुमारं नृपतिविदधेऽष्टमम् ॥ ८७ ॥ .. विज्ञायावधिना सोऽपि दिव्यस्तैस्तैरुपायनैः। उपतस्थे महीपाल सेवां च प्रत्यपद्यत ॥ ८८ ॥ तं विसृज्य नृपश्चक्रेऽष्टमभक्तान्तपारणम् । अष्टाह्निकोत्सवं तस्य विदधे च यथाविधि ॥ ८ ॥ गुहां तमिस्रामभितस्तमिस्रारिरिव विषा। . जगाम तददूर च स्कन्धावारं न्यधावृपः ॥ ८ ॥ कतमालामरं तत्र स उद्दिश्याष्टमं व्यधात् । सोऽपि ज्ञात्वासनकम्पादान!पत्य भूपतिम् ॥ ८१ ॥ विसृज्य तमपि क्षमापः कृत्वा चाष्टमपारणम् । विदधेऽष्टाह्निकां तस्य महोत्सवपुरःसरम् ॥ ४२ ॥ सुषेणी भरतादेशासिन्धुमुत्तीर्य चर्मणा । तरसा साधयामास दक्षिणं सिन्धुनिष्कुटम् ॥ ८३ ॥ करं ततस्त्यम्नेच्छानामादाय खेच्छयाथ सः । उत्तीर्य चर्मणा सिन्धुमाययौ भरतेश्वरम् ॥ ८४ ॥
(१) क छ वसुधाधिपः ।