________________
fur
योगशास्त्र
जवे च भरताधीशं धन्योऽस्मि यदिहागमः । नाथेन भवता नाथ सनाथोऽहमतः परम् ॥ ७४ ॥ ततस्तमात्मसात्कृत्वा कृत्यविदरतेश्वरः ।। प्रति प्रतीचीमचलच्चलयनचलां बलैः ॥ ७५ ॥ अपराणवमासाद्य प्रभासाभिमुखं शरम् । जाज्वल्यमानं भरतस्तडिद्दण्ड मिवाक्षिपत् ॥ ७६ ॥ दण्डं प्रयच्छ कुर्वाज्ञां जिजीविषसि चेत्सुखम् । इत्यक्षराणि तहाणे प्रभासपतिरक्षत ॥ ७७ ॥ प्राज्यानि प्रगुणोक्त्य प्राभृतान्यशैतानि सः । चचाल शरमादाय प्रसादयितुमार्षभिम् ॥ ७८ ॥ हारानीहारहरिणानाजहारातिहारिणः । चिरकालाजितानात्मयशोराशीनिवाखिलान् ॥ ७ ॥ येषामग्रे दृषत्कल्पो रमारमणहृन्मणि: । तांस्तान्विश्राणयामास मणीबरशिरोमणः ॥ ८० ॥ कटकानि कटीसूत्रं चूडामणिमुरोमणिम् । निष्कादि चार्पयट्रान्जे मूतं तेज इव स्वकम् ॥ ८१ ॥ इति प्रसादितस्तेनाच्छद्मना भक्तिसद्मना । भरतोऽगानदी सिन्धुमुत्तरबारदेहलीम् ॥ २ ॥ निकषा सिन्धुभवनं निदधे शिबिरं नृपः । सिन्धुदेवी समुद्दिश्य विदधे चाष्टमं तपः ॥ ८३ ॥ सिन्धुश्वासनकम्मेन ज्ञात्वा चक्रिणमागतम् । उपेत्योपायनैर्दिव्यैरान पृथिवीपतिम् ॥ ८४ ॥