SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशः । नरचूडामणेरणे निजं चूडामणिं फणी। चिराजितं तेज इवोपानयत्तच्छरं च सः ॥ ६३ ॥ तवाहं पूर्वदिक्पालः किङ्करः करवाणि किम् । इति विज्ञपयन् राज्ञा सोऽनुजज्ञे महौजसा ॥ ६४ ॥ जयस्तम्भमिवारोप्य तत्र तं मागधाधिपम् । पूर्वनीरनिधेस्तोरावरदेवो न्यवर्त्तत ॥ ६५ ॥ उर्बीमनुवी कुर्वाणश्चलयनचलानपि । चतुरङ्गबलेनाथ प्रपेदे दक्षिणोदधिम् ॥ ६६ ॥ एलालवङ्गलवलोककोलबहले तटे । सैन्यान्यावासयामास सदोर्वीर्य पुरन्दरः ॥ ६॥ तेजसा स दुरालोको हितोयइव भास्करः । महावाहं महाबाहुरारोह महारथम् ॥ ६८॥ तरङ्गैरिव रङ्गद्भिस्ततस्तु स्तुरङ्गमैः । रथनाभ्युदयं तोयं ललझे स महोदधिम् ॥ ६८ ॥ वरदामाभिमुखं च सज्जीकृतशरासनः । : धनुर्वेदोङ्कारमिव ज्याभि?षं ततान सः ॥ ७० ॥ सौवर्मकर्णताडपद्मनालतुलास्पृशम् । काञ्चनं सन्दधे बाणमाकांकष्टकार्मुके । ७१ ॥ वरदामाख्यतीर्थेशमभि श्रीभरतस्ततः । मुमोच नमुचिहेषिस्थामा नामातिं शरम् ॥ ७२ ॥ वरदामपतिर्बाणं प्रेक्ष्य च प्रतिरश च । भरतं प्रत्युपायज्ञ उपायनमुपानयत् ॥ ७३ ॥
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy