________________
योगशास्त्रे
तत्र नाभ्यङ्गभूवंशरत्नाकरनिशाकरः । यथाविधि जुगोपोव्वौं न्यायो विग्रहवानिव ॥ ५२ ॥ चतुःषष्टिः सहस्राणि बभूवुस्तस्य वल्लभाः । अनुचर्यः श्रियो यासां जज्ञिरे रूपसम्पदा ॥ ५३ ॥ तस्मित्र सनासीने वासवस्य दिवौकसः । हयोर्भेदमजानन्तः पेतुः प्रणतिसंशये ॥ ५४ ॥ प्रारब्धदिग्जयः पूर्वं पूर्वस्यां भानुमानिक । सोऽगाजितान्यतेजोभिस्तेजोभिर्योतयन् जगत् ॥ ५५ ॥ उत्क्षिप्तामिवोहीचिहस्तविन्यस्तविद्रुमैः । गङ्गासम्भेदसुभगं स प्रापत् पूर्वसागरम् ॥ ५६ ॥ मागधतीर्थकुमारं देवं मनसिकत्य च। प्रपेदेऽष्टमभक्तं सोऽर्थसिद्धेरिमादिमम् ॥ ५७ ॥ यादांसि त्रासयबाशु रथेनारुह्य रहमा । जलधिं मन्दरेणेव नगाहे स महाभुजः ॥ ५८ ॥ रथनाभ्युदये तोये स्थित्वा हादशयोजनीम् । बाणं दूतमिव प्रेषीत्रामाङ्गं मागधाय सः ॥ ५८ ॥ अथ मागधतीर्थस्य पतिनिपतिते शरे । चुकोप विकटाटोपभृकुटीभङ्गभीषणम् ॥ ६ ॥ शरे मन्त्राक्षराणीव तस्य नामाक्षराख्यसो। दृष्ट्वा नागकुमारोऽभूबितान्तं शान्तमानसः ॥ ६१ ॥ प्रथमश्चक्रवत्यैष उत्पन्न इति चिन्तयन् । उपतस्ये स भरतं विजयो मूर्तिमानिव ॥ ६२ ॥