________________
प्रथमः प्रकाशः ।
६५
तेषां दूरे न लोकाग्रं कारुण्यक्षीरसागर । समारोहन्ति ये नाथ त्वच्छाशनमहारथम् ॥ ४१ ॥ लोकाग्रतोऽपि संसारमग्रिमं देव मन्महे । निष्कारणजगद्दन्धुर्यत्र साक्षात्त्वमोक्ष्यसे ॥ ४२ ॥ -
त्वद्दर्शनमहानन्दस्यन्दमिष्यन्दलोचनैः ।
स्वामिन् मोक्षसुखास्वादः संसारेऽप्यनुभूयते ॥ ४३ ॥ रागद्देषकषायाद्यैरुद्धं जगदरातिभिः ।
इदमुद्देष्ट्यते नाथ त्वयैवाभयसत्रिणा ॥ ४४ ॥
स्वयं ज्ञापयसे तत्त्वं मार्गं दर्शयसि स्वयम् |
स्वयं च वायसे विश्वं त्वत्तो नाथामि नाथः किम् ॥ ४५ ॥ इति त्वा जगन्नाथं महीनाथशिरोमणिः ।
८
देशनावाक्सुधां पूर्णं कर्णाञ्जलिपुटं पपौ ॥ ४६ ॥ तदा ऋषभसेनादीन् भगवान्वृषभध्वजः । दोचयामास चतुरशीतिं गणधरान् स्वयम् ॥ ४७ ॥ अदीक्षयत्ततो ब्राह्मीं भरतस्य च नन्दनान् । शतानि पञ्च नष्तॄंश्च शतानि सप्त नाभिभूः ॥ ४८ ॥ साधवः पुण्डरोकाद्याः साध्वयो ब्राह्मादयोऽभवन् । श्रेयांसाद्याः श्रावकाश्च श्राविकाः सुन्दरीमुखाः ॥ ४८ ॥ एवं चतुर्विधः सङ्घः स्थापितः स्वामिना तदा । ततःप्रभृति सङ्घस्य तथैवेयं व्यवस्थितिः ॥ ५० ॥ स्वाम्यथो भव्यबोधायान्यतोऽगात्सपरिच्छदः । तं नत्वा भरताधीशोऽप्ययोध्यां नगरौं ययौ ॥ ५१ ॥