________________
" : योगशास्त्रे -
साऽपश्यत्तीर्थक्कलक्ष्मौ तस्याऽतिशयशालिनीम् । तस्यास्तदर्शनानन्दस्थैर्यात्कर्म व्यशीर्यंत ॥ ३० ॥ भगवद्दर्शनानन्दयोगस्थैर्यमुपेयुषी। केवलज्ञानमम्नानमाससाद तदैव सा ॥ ३१ ॥ करिस्कन्धाधिरूढैव प्राप्तायुःकर्मसङ्घया । अन्तवत्केवलित्वेन निर्वाणं मरुदेव्यगात् ॥ ३२ ॥ एतस्यामवसप्पिण्यां सिद्धोऽसौ प्रथमस्ततः । क्षोराब्धी तहपुः क्षिवा चक्रे मोक्षोत्सवः सुरैः ॥ ३३ ॥ ततो विज्ञाततमोक्षो हर्षशुग्भ्यां समं नृपः । प्रभच्छायातापाभ्यां शरत्काल इवानशे ॥ ३४ ॥ सन्त्यज्य राज्यचिहानि पदाति: सपरिच्छदः । तत: समवसरणं प्रविवेश विशाम्पति: ॥ ३५ ॥ चतुर्भिर्देवनिकायैः स्वामी परितस्तदा । ददृशे भरतेशे न दृक्चकोरनिशाकरः ॥ ३६ ॥ त्रिश्च प्रदक्षिणीतत्य भगवन्तं प्रणम्य च । मूट्टि बछानलिः स्तोतुमिति चक्री प्रचक्रमे ॥ ३० ॥ जयाखिलजगनाथ जय विश्खाभयप्रद । जय प्रथमतीर्थेश जय संसारतारण ॥ ३८ ॥ अद्यावसर्पिणीलोकपद्माकरदिवाकर । त्वयि दृष्टे प्रभातं मे प्रनष्टतमसोऽभवत् ॥ ३८ ॥ . भव्यजीवमनोवारिनिर्मलीकारकर्मणि । पाणी जयति ते नाथ कतकक्षोदसोदरा ॥ ४० ॥