________________
प्रथमः प्रकाशः ।
तदेवं सर्व्वकालेषु वनवासी निराश्रयः ।
पृथग्जन इवेकाको वत्सो मे दुःखभाजनम् ॥ १८ ॥ त्रैलोक्यस्वामिताभाजः स्वस्नोस्तस्य सम्प्रति । पश्य सम्पदमित्युक्वारोहयामास तां गजे ॥ २० ॥ सुवर्णवञ्च माणिकाभूषणेस्तुरगेगंजः ।
पत्तिभिः स्यन्दनैर्मूर्त्तश्रौमयैः सोऽचलत्ततः ॥ २१ ॥ सेन्यैर्भूषणभाःपुञ्जकृतजङ्गमतोरणैः ।
૧૨
मच्छन् दूरादपि नृपोऽपश्यद्रत्नध्वजं पुरः ॥ २२ ॥ मरुदेवामथावादीद्भरतः पुरतो ह्यदः ।
प्रभोः समवसरणं देवि देवैर्विनिर्मितम् ॥ २३ ॥ अयं जयजयारावतुमुलस्त्रिदिवौकसाम् । श्रूयते तातपादान्ते सेवोत्सवमुपेयुषाम् ॥ २४॥ मालवकैशिकोमुख्यग्रामरागपवित्रिता ।
कर्णामृतमियं वाणी स्वामिनो देशनाकृतिः ॥ २५ ॥
मयूरसारस क्रौञ्चहंसाद्यैः स्खस्वराधिका ।
आकर्ण्यते दत्तकर्णेः स्वामिनो गोः सविस्मयम् ॥ २६ ॥ तातस्य तोयदस्येव ध्वनावायोजनादिह ।
श्रुते मनोबलाकेव बलवहेवि धावति ॥ २७ ॥ त्रैलोक्यभर्त्तुर्गम्भीरां वाण संसारतारिणीम् । निर्वातदीपनिस्पन्दा मरुदेवा मुदाऽशृणोत् ॥ २८ ॥
शृण्वन्त्यास्तां गिरं देव्या मरुदेव्या व्यलीयत ।
आनन्दापयः
यः पूरैः पङ्गवत्पटलं दृशोः ॥ २८ ॥