SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ६२ योगशास्त्रे आविर्बभूवानुवपुस्तदा भामण्डलं विभोः । खद्योतपोतवद्यस्य पुरो मार्त्तण्डमण्डलम् ॥ ८ ॥ प्रतिध्वामैश्चतस्रोऽपि दिशो मुखरयन् भृशम् । अम्भोद इव गम्भीरो दिवि दध्वान दुन्दुभिः ॥ ८ ॥ अधोवृन्ताः सुमनसो विष्वग्वलषिरे सुरैः । शान्तीभूते जने त्यक्तान्यस्त्राणीव मनोभुवा ॥ १० ॥ पञ्चत्रिंशदतिशयान्वितया भगवान् गिरा । त्रैलोक्यानुग्रहायाथ प्रारभे धर्मदेशनाम् ॥ ११ ॥ भगवत्केवलज्ञानोत्सवं चारा अचीकथन् । भरतस्य तदा चक्ररत्नमप्युदपद्यत ॥ १२ ॥ उत्पन्नकेवलस्तात इतश्चक्रमितोऽभ्यगात् । आदौ करोमि कस्यार्चामिति दध्यौ क्षणं नृपः ॥ १३ ॥ क्क विश्वाभयदस्तातः क्व चक्रं प्राणिघातकम् । विमृश्येति स्वामिपूजाहेतोः खानादिदेश सः ॥ १४ ॥ सुनोः परौषहोदन्तदुःखाश्रूत्पन्नदृग्रुजम् । मरुदेवामथोपेत्य नत्वा चासौ व्यजिज्ञपत् ॥ १५ ॥ श्रदिशः सर्व्वदापीदं यन्मे सूनुस्तपात्यये । पद्मखण्ड इव मृदुः सहते वारिविद्रवम् ॥ १६॥ हिमर्त्ती हिमसम्पातपरिक्लेशवशां दशाम् । अरण्ये मालतोस्तम्ब इव याति निरन्तरम् ॥ १७ ॥ उष्णर्त्तावृष्णकिरण किरणैरतिदारुणैः ! सन्तापं चानुभवति स्तम्बेरम इवाधिकम् ॥ १८ ॥
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy