SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ योगशास्त्र पयःप्रदानसामर्थ्याद्दन्या चेन्महिषो न किम् । विशेषो दृश्यते नास्यां महिषीती मनागपि ॥ १५ ॥ स्थानं तीर्थ देवानां सर्वेषामपि गौर्यदि । विक्रीयते दुह्यते च हन्यते च कथं ततः ॥ १६ ॥ मुसलोदूखले चुल्लो देहलो पिप्पलो जलम् । निम्बोऽर्कश्वापि यैः प्रोक्ता देवास्तैः केऽत्र वर्जिताः ॥ १७ ॥ वौतरागस्तोत्रेऽप्युक्तमस्माभिः । १७४ कृतार्थ जठरोपस्थदुस्थितैरपि देवतेः । भवादृशात्रिनुवते हहा देवास्तिकाः परे ॥ १८ ॥ ७ ॥ गुरुलक्षणमाह महाव्रतधरा धौरा भैक्षमात्रोपजीविनः । सामायिकस्था धर्मोपदेशका गुरवो मताः ॥ ८ ॥ महाव्रतानि अहिंसादीनि तानि धरन्तीति महाव्रतधराः । महाव्रतधारित्व एवायं हेतुः धोरा इति धैर्यं ह्यापत्स्वप्यवैक्लव्यं तद्योगाडि अखण्डितमहाव्रतधरा भवन्ति । मूलगुणधारित्वमुक्ता उत्तरगुणधारित्वमाह । भैक्षमात्रोपजीविन इति भिक्षाणां समूहो भेक्षं अन्नपानधर्मोपकरणरूपं तन्मात्रमेवोपजीवन्ति लोकान्त्र पुनईनधान्यहिरण्यग्रामनगरादि । मूलगुणोत्तरगुणधारणकारणभूतगुणवत्त्वमाह । सामायिकस्था इति समो रागद्वेषविकल आत्मा समस्य आयो विशिष्टज्ञानादिगुणलाभः । समायः स एव सामायिकं
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy