________________
हितीयः प्रकाशः। सर्वेषां शस्त्रसम्बन्धः सर्वेषां मोहजृम्भितम् । तदेवं देवसन्दोहो न देवपदवी स्पृशेत् ॥ ५ ॥ बुद्धस्यापि न देवत्वं मोहाच्छून्याभिधायिनः । प्रमाणसिद्धे शून्यत्वे शून्यवादकथा वृथा ॥ ६ ॥ प्रमाणस्यैव सत्त्वेन न प्रमाण विवर्जिता। शून्य सिद्धिः परस्यापि न स्वपक्षस्थितिः कथम् ॥ ७ ॥ सर्वथा सर्वभावेषु क्षणिकत्वे प्रतिश्रुते । फलेन सह सम्बन्धः साधकस्य कथं भवेत् ॥ ८॥ वधस्य वधको हेतुः कथं क्षणिकवादिनः । स्मृतिश्च 'प्रत्यभिज्ञा च व्यवहारकरी कथम् ॥ ८॥ निपत्य ददतो व्याघ्रधाः स्वकायं कमिसङ्गुलम् । देयादेयविमूढस्य दया बुद्धस्य कीदृशी ॥ १० ॥ स्वजन्मकाल एवात्मजनन्युदरदारिण: । मांसोपदेशदातुश्च कथं शौद्धोदनेदया ॥ ११ ॥ यो ज्ञानं प्रकर्तईम्भे भाषते स्म निरर्थकम् । निर्गुणो निष्क्रियो मूढः स देव: कपिलः कथम् ॥ १२ ॥ प्रार्याविनायकस्कन्दसमीरणपुरस्मराः । निगद्यन्ते कथं देवाः सर्वदोषनिकेतनम् ॥ १३ ॥ या पशYथमश्नाति वपुत्त्रं च वृषस्यति । शृङ्गादिभिर्भूती जन्तून् सा वन्द्यास्तु कथं नु गौः ॥ १४ ॥
(१) क प्रत्यभिज्ञातव्यवहारकरी कथम् ।