________________
१७२
योगशास्त्रे इति मुक्ति निमित्तम् । देवत्वमात्रं तु क्रीडनादिकारिणां प्रेतपिशाचादीनामिव न वार्यते ॥ ६ ॥
मुक्ति निमित्तत्वाभावमेव व्यनक्तिनाट्याट्टहाससङ्गीताद्युपप्लवविसंस्थुलाः ।
लम्भयेयुः पदं शान्तं प्रपन्नान् प्राणिनः कथम् ॥७॥ इहसकलसांसारिकोपप्लवरहितं शान्तं पदं मुक्तिकैवल्यादिशब्दाभिधेयमस्तीत्यत्र नास्ति विप्रतिपत्तिः । तत्तादृशं शान्तं पदं नाट्याट्टहाससङ्गीतादिविसंस्थुलाः स्वयमुपहतवृत्तयः कथमाश्रितजनान् प्रापयेयुः। नोरण्डतरः कल्पतरुलीलामुद्दहति। ततथ रागद्देषमोहदोषविवज्जितो जिन एको देवो मुक्तये नेतरे दोषदूषिताः ।
अत्रान्तरलोका:--
न सर्वज्ञा न नीरागाः शङ्करब्रह्मविष्णवः । प्राकतेभ्यो मनुष्येभ्यो ऽप्यसमञ्जसत्तितः ॥ १ ॥ स्त्रीसङ्गः काममाचष्टे हेषं चायुधसंग्रहः । व्यामोहं चाक्षसूत्रादिरशौचं च कमण्डलुः ॥ २ ॥ गौरी रुद्रस्य सावित्री ब्रह्मण: श्रीर्मुरहिषः । शचीन्द्रस्य रवे रत्नादेवी दक्षात्मजा विधीः ॥ ३ ॥ तारा वृहस्पतेः स्वाहा वङ्गेश्चेतोभुवो रतिः । धूमोर्णा शाहदेवस्य दारा एवं दिवौकसाम् ॥ ४ ॥