________________
द्वितीयः प्रकाशः |
शासनान्तराणि हि निरतिशयपुरुषप्रणेटकाणि न प्रतिपत्तियोग्यानि | चेतनास्ति चेदित्यधिक्षेपः चेतनावत एव प्रत्युपदेशस्य सफलत्वात् । अचेतनं तु प्रति विफल उपदेशप्रयासः ।
यदाह
-
१७१
अरण्यरुदितं क्वतं शबशरीरमुद्दर्त्तितं
खपुच्छमवनामितं बधिरकर्णजापकृतः ।
स्थले कमलरोपणं सुचिरमूषरे वर्षणं तदन्धमुखमण्डनं यदबुधे जने भाषितम् ॥ १ ॥ ५ ॥ अदेवलक्षणमाह
ये स्वस्वाच सूवादिरागाद्यङ्ककलङ्किताः । निग्रहानुग्रहपरास्ते देवा: स्युर्न मुक्तये ॥ ६ ॥
स्त्री कामिनी शस्त्रं शूलादि अक्षसूत्रं जपमाला तान्यादौ येषां नाट्याट्टहासादौनां ते स्त्रीशस्त्राक्षसूत्रादयः राग आदिर्येषां ते रागादयः आदिशब्दाद द्वेषमोहपरिग्रहः रागादीनामङ्काचिह्नानि स्त्रीशस्त्राक्षसूत्रादयश्च ते रागाद्यङ्काश्च तैः कलङ्गिता दूषितास्तत्र स्त्री रागचिह्नं शस्त्रं द्वेषचिह्नं अतसूचं मोहचिह्नम् । वीतरागो हि नाङ्गनासङ्गभाग्भवति । वीतद्वेषो वा कथं शस्त्रं बिभृयात् । गतमोहो वा कथं विस्मृतिचिह्न जपमालां परिगृह्णीयात् । रागद्देषमोहैः सर्वदोषाः संग्टहीतास्तन्मूलत्वात्सर्वदोषाणाम् । निग्रहो वधबन्धादिः अनुग्रहो वरप्रदानादिः तौ परौ प्रकृष्टौ येषां ते तथा । निग्रहानुग्रहावपि रागद्वेषयोश्विई । य एवंविधास्ते देवा न भवन्ति मुक्तये