SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १७० - योगशास्त्रे चतुरतिशयवतो देवस्य ध्यानोपासनशरणगमनशासनप्रतिपत्तीः साधिक्षेपमुपदिशतिध्यातव्योऽयमुपास्योऽयमयं शरण मिष्यताम् । अस्यैव प्रतिपत्तव्यं शासनं चेतनास्ति चेत् ॥ ५ ॥ अयं देवो ध्यातव्यः पिण्डस्थपदस्थरूपस्थरूपातीतरूपतया श्रेणिकेनेव । श्रेणिको हि वर्णप्रमाणसंस्थानसंहननदतुस्त्रिंशदतिशयादियोगिनं भगवन्तं श्रीमहावीरमनुध्यातवान् । तदनुभावाच्च तहणप्रमाणसंस्थानसंहननातिशययुक्तः पद्मनाभस्तीर्थकरो भविष्यति । यदाचक्ष्महि'तह तम्मएण मणमा वीरजिणो झाइयो तए पुब्बिं । जह तारिसो च्चिय तुमं अहेसि ही जोगमाहप्पं ॥ १ ॥ आगमश्च जस्सौलसमायारो अरिहा तित्थंकरो महावीरो। . तम्सौलसमायारो होहि हु अरिहा महापउमो ॥ २ ॥ उपास्यः सेवाञ्जलिसंबन्धादिना अयमेव देव: दुष्कृतगर्हासुक्कतानुमोदनापूर्वकमयमेव देवो भवभयातिभेदी शरणमिष्यताम्। अस्यैवोतलक्षणस्य देवस्य शासनमाज्ञा प्रतिपत्तव्यं स्वीकरणीयम् । (१) तथा तन्मयेन मनसा वीरजिनो ध्यातस्त्वया पूर्वम । ___ यथा तादृश एव त्वमासी. ही योगमाहात्मयम् ॥ (२) यच्छोलसमाचारो अर्हन् तीर्थंकरो महावीरः । तच्छोलसमाचारो भविष्यति खलु अहन् महापद्मः ॥
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy