________________
१६८
द्वितीयः प्रकाशः। सर्वे भावाः सर्वथा येन दृष्टाः ."
एको भावस्तत्त्वतस्तेन दृष्टः ॥ १॥ जितरागादिदोष इत्यनेनापायापगमातिशयमाह तत्रेदं सर्वजनप्रतीतम् । यथा सन्ति रागहेषादयः । ते च दोषास्तरात्मनो दूषणात् । ते च जिताः प्रतिपक्षसेवनादिभिर्भगवतेति जितरागादिदोष इत्युक्तम् । सदा रागादिरहित एव कश्चित्पुरुषविशेषोऽस्तीति तु वार्तामात्रम् । अजितरागादेश्चास्मदादिवत्र देवत्वमिति । बैलोक्यपूजित इत्यनेन पूजातिशयमाह। कतिपयप्रतारितमुग्धबुद्धिपूजायां हि न देवत्वं स्यात्। यदा तु चलितासनैः सुरासुरैर्नानादेशभाषाव्यवहारविसंस्थुलैर्मनुष्यः परस्परनिरुद्धवरैः सख्यमुपागतैस्तियग्भिश्च समवसरणभूमिमभिपतद्भिरहमहमिकया सेवाञ्जलिंपूजागुणस्तोत्रधर्मदेशनामृतरसास्वादादिभिः पूज्यते भगवान् तदा देवत्वमिति । यथास्थितार्थवादीत्यनेन वागतिशयः • यथास्थितं सद्भूतमथं वदतीत्येवंशौलो यथास्थितार्थवादी। यदाचक्ष्महि स्तुती
अपक्षपातेन परोक्षमाणा वयं हयस्याप्रतिमं प्रतीमः ।
यथास्थितार्थप्रथनं तवैतदस्थाननिबन्धरसं परेषाम् ॥ १ ॥ यथा वा क्षिप्येत वाऽन्यैः सदृशोक्रियेत वा तवांङ्गिपीठे लुठनं सुरेशितुः । इदं यथावस्थितवस्तुदेशनं परैः कथङ्कारमपाकरिष्यते ॥ २ ॥
देव इति लक्ष्यपदं दीव्यते स्तूयते इति देव: स च सामा. दर्हन् परमेखरो नान्यः ॥ ४ ॥