SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ १६८ योगशास्त्रे देवादेवगुर्वगुरुधर्माधर्मेषु लक्षयितव्येषु देवलक्षणमाह - सर्वज्ञो जितरागादिदोषस्त्रैलोक्यपूजितः । यथास्थितार्थवादी च देवोऽर्हन् परमेश्वरः ॥ ४ ॥ देवस्य देवत्वे चतुरोऽतिशयानाचक्षते विचक्षणाः । तद्यथा-- जानातिशयः१ अपायापगमातिशयः २ पूजातिशयः ३ वागतिशयश्च४ तत्र सर्वज्ञ इत्यनेन सकलजीवाजीवादितत्त्वज्ञतया ज्ञानातिशयमाह । नतु यथाहुविशृङ्खलवादिनः परे । सर्वं पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु । कीटसंख्यापरिज्ञानं तस्य नः क्वोपयुज्यते ॥ १ ॥ दूरं पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु । प्रमाणं दूरदर्शी चेदेतान् ग्टडातुपास्महे ॥ २ ॥ इति ॥ नहि विवक्षितस्यैकस्यापोष्टस्यार्थस्य ज्ञानमशेषार्थज्ञानमन्तरेण भवति। सर्वे हि भावा भावान्तरैः साधारणासाधारणरूपा 'इत्यशेषज्ञानमन्तरेण सा लक्षण्यवैलक्षण्याभ्यां नैकोऽपि जातो भवति। यदाहुः एको भावः सर्वथा येन दृष्टः सर्वे भावास्तत्त्वतस्तेन दृष्टाः । (१) क च इत्यशेषज्ञतामन्चरेण।
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy