SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रकाशः। प्राभिनिवेशिकं जानतोऽपि यथास्थितं वस्तु दुरभिनिवेशलेशविप्लावितधियो जमालेरिव भवति ॥ ३ ॥ सायिकं देवगुरुधर्मेष्वयमयं वेति संशयानस्य भवति ॥ ४ ॥ अनाभोगिकं विचारशून्यस्यैकेन्द्रियादेर्वा विशेषविज्ञानविकलस्य भवति ॥ ५॥ यदाह'आभिग्गहियं 'अणभिग्गहं च तह अभिणिवेसियं चेव । संसइयमणाभोगं मिच्छत्तं पंचहा होइ ॥ १ ॥ अत्रान्तरलोकाः मिथ्यात्वं परमो रोगो मिथ्यात्वं परमं तमः। मिथ्यात्वं परमः शत्रुर्मिथ्यात्वं परमं विषम् ॥ १ ॥ जन्मन्येकन दुःखाय रोगो ध्वान्तं रिपुर्विषम् । अपि. जन्मसहस्रेषु मिथ्यात्वमचिकित्सितम् ॥ २ ॥ मिथ्यात्वेनालीढचित्ता नितान्तं तत्त्वातत्त्वं जानते नैव जीवाः । किं जात्यन्धाः कुत्रचिवस्तुजाते . रम्यारम्यव्यक्तिमासादयेयुः ॥ ३ ॥ (१) अाभियहिकमनभियहं च तथा चाभिनिवेशिकं चेव। सांथयिकमनाभोगं मिथ्यात्वं पञ्चधा भवति ॥ (२) क अणभिग्गहियं।
SR No.002392
Book TitleYogshastra Part 01
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1909
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy