________________
योगशास्त्रे भवेदैमानिकोऽवश्यं जन्तुः सम्यक्त्रवासितः । यदि नोद्दान्तसम्यको बदायुर्वापि नो पुरा ॥ ५ ॥ अन्तर्मुहर्तमपि यः समुपास्य जन्तुः सम्यकरत्नममलं विजहाति सद्यः । बम्भुम्यते भवपथे सुचिरं न सोऽपि
तविभ्रतश्विरतरं किमुदीरयामः ॥ ६ ॥ इति । विपक्षज्ञाने सति विवक्षितं सुज्ञानं भवतीति सम्यक्त्व विपक्ष
मिथ्यात्वमाहअदेवे देवबुद्धिर्या गुरुधौरगुरौ च या । अधर्मे धर्मबुद्धिश्च मिथ्यात्वं तदिपर्ययात्.॥ ३ ॥ अदेवोऽगुरुरधम्मश्च वक्ष्यमाणलक्षणस्तत्र देवत्वगुरुत्वधर्मत्वप्रतिपत्तिलक्षणं मिथ्यात्वं तस्य लक्षणं तद्दिपर्ययादिति तस्य सम्यक्त्वस्य विपर्ययः तस्माडेतोः सम्यक्त्वविपर्ययरूपत्वादित्यर्थः तथा च इदमपि संग्रहीतं देवे अदेवत्वस्य गुरावगुरुत्वस्य धर्म अधम्मत्वस्य प्रतिपत्तिरिति। __ मिथ्यात्वं च पञ्चधा आभिग्रहिकमनाभिग्रहिकमाभिनिवेशिकं सांशयिकमनाभोगिकं च ।
तत्राभिग्रहिकं पाखण्डिनां स्वस्वशास्वनियन्त्रितविवेकालोकानां परपक्षप्रतिक्षेपदक्षाणां भवति ॥ १ ॥
अनाभिग्रहिकं तु प्राकृतलोकानां सर्वे देवा वन्दनीया न निन्दनीया एवं सर्वे गुरवः सर्वे धर्मा इति ॥ २ ॥